________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ २२० ॥
*****
निवर्त्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवतिसंयमे रतिं कुब्र्वीत, तद्विहितरतेस्तु न किञ्चिद्वाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च- ' क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १ ॥ 'तणसंथार निसण्णोऽवि मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि १ ॥ २ ॥' अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादव दिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमात् यैर्हेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽचष्टे
बिउसे अदढों उ सजमे कोइ हुज अरईए । अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं ॥ १९७॥ इह हि प्रथमोद्देश के बह्वयो नियुक्तिग था अस्मिस्त्वियमेवै केत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्य तो विनेयसुखप्रतिपत्यर्थं द्वितीयोदेशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे' सप्तदशभेदभिन्ने 'अदृढः ' शिथिलो मनोदयादरत्युद्भवाद्भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानां परिग्रहों, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथार्थः ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा - संयमारतिमपवर्त्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो यश्चैवंभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपायोरिव नैकत्रावस्थानम्, १ तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि १ । । १ ।।
'लोकवि. अ.
उद्देशकः २
॥ २२० ॥