________________
॥ २१
॥
॥ अथ द्वितीयाध्ययने द्वितोयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्निरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थ:-संयमोऽनुष्ठेय' इत्येतत्प्रथमोद्देशकेऽभिहितम् , इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद् , अज्ञानकर्मालोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाष्टप्रकारं कर्मापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह
अरई आउट्टे से मेहावी, खणंसि मुक्के ॥ सू० ७२॥ अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-'आयट्ठ समणुवासेज्जासि' आत्मार्थं संयम सम्यक्तया कुर्यात् , | तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह-'अरई' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेणं भगवया एवमक्खाय' किं तच्छु तमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्ता पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलवाद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्तेत अपवर्तेत निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वगे रति
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀