SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥२१॥ लोकवि.अ.२ उद्देशकः १ हीणा, जीहपरिणाणा अपरिहीणा, फरिसपरिण्णाणा अपरिहोणा, इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं, आयटुं संमं समणवासिज्जासि त्तिबेमि ॥ सू०७१॥ ॥ इति प्रथमोद्देशः॥ यावदस्य विशगरोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतेः 'विरूपरूपैः' इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानः' प्रकृष्टनिरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ? इत्याह-'आयड' इत्यादि, आत्मनोऽर्थ आत्मार्थः, स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं-प्रयोजनमात्मार्थ, तच चारित्रानुष्ठानमेव, अथवा आयतःअपर्यवसानान्मोक्ष एव, स चासावर्थश्चायतार्थोऽतस्तं, यदि वाऽऽयत्तो-मोक्षः अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तसथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्तालिट्सप् सं-सम्यग यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थ 'समनुवासयेः' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम'इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं 'समनुवासयेद्' भावयेद्रञ्जयेत् , आयतार्थ वा मोक्षाख्यं सम्यग-अपुनरागमनेनान्विति-यथोक्तानुष्ठानात्पश्चादात्मना 'समनुवासयेद'अधिष्ठापयेद् । 'इतिः' परिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमानस्वामिनार्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । द्वितीयाध्ययनस्य प्रथम उद्देशकः समाप्तः ॥२-१ । २१८॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy