SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ लोकवि.अ.२ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) उद्देशकः । ॥ २१४॥ सम्यग निधीयते-अवस्थाप्यत उपभोगाय योऽर्थः स सनिधिस्तस्य सनिचयः-प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स 'इह' अस्मिन्संसारे 'एकेषाम्' असंयतानां संयतामासानां वा केषश्चिद् 'भोजनाय' उपभोगार्थ 'क्रियते' विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह-"तओ से इत्यादि, 'ततो' द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे से तस्य बुभुक्षोः 'एकदेति द्रव्यक्षेत्रकालमावनिमिचाविर्भाषितवेदनीयकम्र्मोदये 'रोगसमुत्पादाः' ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह-'जेहिं' इत्यादि, 'यैः'मातापित्रादिभिनिजैः साई संवसति त एव वा निजाः 'एकदा रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तान्निजान्पश्चात्परिभवोत्थापितविवेका 'परिहरेत' त्यजेत् तन्निरपेक्षः सेडुकवत् स्यादित्यर्थः, ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति-नाल'मित्यादि, पूर्ववद्ः रोगाद्यमिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यकरणेन रोगवेदनाः सोढव्या? इत्याह जाणित दुक्खं पत्तेयं सायं । सू०६८॥ ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च-"सह कलेवर ! दुःखमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा। बहुतरं च सहिष्यसि जीव हे!, परवशो न च तत्र गुणोऽस्ति ते॥१॥" यावच्च भोत्रादि www २१४॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy