SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१५॥ भिर्विज्ञानैः परिहीयमानः जराजीणं न निजाः परिवदन्ति यावच्चानुकम्पया पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदास्मार्थोऽनुष्ठेय इत्येतदर्शयति- . अणभिक्कंतं च खलु वयं संपेहाए ॥ सू०६९॥ चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मृढभावं व्रजतीति प्रतिपादितम् , अनभिक्रान्तं च पुनर्वयः सप्रेक्ष्य "आयटुं समणुवासेज्जासि" इत्युत्तरेण सम्बन्धः, 'आत्मार्थम् आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः। किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति १, परेणापि लब्धावसरेणात्महितमनुप्ठेयमित्येतदर्शयति खणं जाणाहि पंडिए ॥ सू० ७॥ क्षण:-अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगाजामभावे सति, तं क्षणं 'जानीहि अवगच्छ 'पण्डित' आत्मज्ञ!। अथवाऽवसीदन् शिष्यः प्रोत्साह्यते-हे अनतिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्ट ! पण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि' अवबुध्यस्व, तथाहि-द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपवलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि-देवनारकमवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षण क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यकृतेत्रमेव,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy