________________
श्रीआचा- राङ्गवृत्तिः (शीलाङ्का.) ॥ २१२॥
लोकवि. अ.२ उद्देशकः १
त्वरित यातीति, उक्तं च-'नहवेगसम चवलं च जीवियं जोव्वणं च कुसुमसमं । सोक्खं च ज अणिच्च तिण्णिवि तुरमाणभोजाइ॥१॥" तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति ॥ ये पुनः संसाराभिष्वङ्गिणोऽ- संयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लपित्ता विलपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसह ते वा णं एगया नियगा तं पुच्चि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा
तुमंपि तेसिं नालं ताणाए वा सरणाए वा ॥ सू०६६ ॥ ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते 'इहे'त्यस्मिन्नसंयमजीविते 'प्रमत्ताः' अध्युपपन्ना विषयकषायेषु प्रमाद्यन्ति, प्रमत्ताश्चाहनिशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सच्चोपघातकारिणीः क्रियाः समारम्भत इति, आह च-'से हता' इत्यादि, 'से'इत्यप्रशस्तगुणमूलस्थानवान्विषयामिलाषी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षयकवचन निर्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनां लुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्त्रासको लोष्टप्रक्षेपादिभिः । स किमर्थ हननादिकाः क्रियाः करोतीत्याह-'अकडं' इत्यादि, अकृतमिति, यदन्येन
१ नदीवेगसमं चपलमेव जीवितं यौवनं च कुसुमसमम् । सौख्यं च यदनित्यं त्रीण्यपि त्वरमाणभोज्यानि ॥१॥
॥ २१२॥