________________
॥
११॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अथवा यत एवं ते सुहृदो नालं. त्राणाय शरणाय वा अतः किं विदध्यादिन्याह-इस्चेव' मित्यादि, 'इतिः उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानी जराभिभूतो न हास्याय न क्रीडाय न रत्यै न विभृपाय प्रत्येकं च शुभाशुभकर्म फलं प्राणिनामिन्येवं मन्वा ममुन्थिन:--मायस्थितः शस्त्रपरिज्ञोक्त मूल गुणस्थानमधिातष्ठन अहो-इत्याश्चयं विहरण बिहारः आश्चयभूती विहागे अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् झणमपि नो प्रमादयेदिच्यूत्तरेण सण्टङ्कः, किंच-'अंतरं चेत्यादि, अन्तर्गमत्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविश्त्यादिकं चः समुच्चये, खलुखधारणे, 'इममिन्यनेनेदमाह विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षमावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदश्याभिधीयते
तपायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सदुर्लभ एवेति, अतस्तमवसरं सप्रेक्ष्य'पर्यालोच्य धीरः समुहूर्तमप्येक Raनो 'प्रमादयेत्' प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मा
देव हेतोग्वगन्तव्यमिति, आन्तहित्तिकत्वाच्च छानस्थिकोपयोगस्य मुहर्तमित्युक्तम् , अन्यथा समयमप्येक न प्रमादयेदिति वाच्यं, तदुक्तम्-“सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय। हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् १५१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिलताविलसितप्रतिमम् ॥ २॥" इत्यादि, किमर्थं च नो प्रमादयेदित्याह-'बयो अच्चेइत्ति, वयः कुमारादि अत्यतिअतीव एति-याति अत्येति, अन्यच्च-'जोव्वणं बनि अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थ, धर्मार्थकामानां तनिबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ २११.