SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाका) ॥ २१॥ लोक. अ.वि २ उद्देशका भूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नाल त्राणाय शरणाय वेति, उक्तं च-"जन्मजरामरणभयैरभिद्रते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥" इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-'से ण हस्साए' इत्यादि, 'स' जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितु योग्यो भवतीत्यर्थः, सच समक्षं परोक्षं वा एवमभिधीयते जनैः-किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै-न च लङ्घनवल्गनास्फोटनक्रीडाना योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगृहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितमस्मावगुण्डितं मां दुहितभूतमेवं गृहितुमिच्छसीत्यादिवचसामास्पदत्वात्र रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलाकः स नैव शोभते, उक्तं च-"न विभूषणमस्य युज्यते, न च हास्य कुत एव विभ्रमः ? । अथ तेषु च वर्ततेजनो, ध्रवमायाति परां विडम्बनाम् ॥१॥ 'जं करेइ तं तं न सोहए जोव्वणे अतिक्कंते । पुरिसस्स महिलियाइव एक्कं धर्म पमुत्तणं ॥ २॥" गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते इच्चेवं समुडिए अहोविहाराए अंतरं च स्खलु इमं संपेहाए धीरे मुहूत्तमवि णो पमायए वओ अच्चेति जोव्वणं व ॥ सू० ६५॥ १ यवत्करोति तत्तन शोभते यौवनेऽतिक्रान्ते। पुरुषस्य महिलाया वा एकं धर्म प्रमुच्य ॥२॥ ॥ २१०॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy