SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ । २०४॥ विसम्भस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किश्चित्सम्यक कुर्वन्ति, तैस्तु प्रत्यायकवचनादवगततच्वैर्यथाऽयमुपचर्यमाणोऽपि वार्द्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरे तद्भण्डनस्वभावतामाचचक्षिरे । ततोऽसौ पुत्रवधीरितः स्नुषामिः परिभृतः परिजनेनावगीतो वाङ्मात्रेणापि केनचिदप्यननुवर्तमानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जरामिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यकनिष्ठलोकात्परिभवमाप्नोतीति, आह-"गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शश्रषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते॥१॥" इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभयमानस्तद्विर(व्यतिरिक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सोवा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तानिजाननेकदोपोधड्नतया परिवदेव-निन्देद्, अथवा खि(वि)द्यमानार्थतया तानसाववगायति-परिभवतीत्यर्थः। येऽपि पूर्वकृतधम्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तहःखापनयनसमर्था न भवन्ति, आह च-'नाल'मित्यादि, नालं-न समर्थाः ते-पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यापस्तरतीति, शरणं पुनर्यदवष्टम्भानिर्भयैः स्थीयते तदुच्यते, तत् पुनदुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति-जरामि ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ २०80
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy