SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ kणार्थ, तथाहि-येनैवेन्द्रियेण सह 'मनः संयुज्यते तदेवात्मीयविषयग्रहणाय प्रवर्त्तते नेतरदिति, ननु च दीर्घशप्कुली भक्षणादौ पचानामपि विज्ञानानां योगपद्य तोपलब्धिरनुभ्यते, नेतदस्ति, केवलिनोऽपि दावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पश्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, यस्तु यौगपद्येनानुभवाभासः स द्रागवृत्तित्वान्मनसो भवतीति, उक्तं च-आत्मा सहति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति र, यस्मिन्मनो ब्रजति तत्र गतोऽयमात्मा ॥१॥" इह चायमात्मेन्द्रियलब्धिमान् आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्ति निर्वतयति, तदनन्तरमन्तमुहूर्तेन शरीरपर्याप्ति, ततोऽपीन्द्रियपर्याप्ति तावतैव कालेन, तानि च पञ्चेन्द्रियाणि-स्पर्शनरसघ्राणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात प्रत्येक द्विविधानीति, तत्र द्रव्येन्द्रियं निवृत्युपकरणभेदात् द्विधा, निवृत्तिरप्यान्तरबाह्यभेदात् द्विधैव, निर्वर्त्यत इति निवृत्तिः, केन निर्वय॑ते , कर्मणा, तत्रोत्सेधागुलासङ्ख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निवृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकिसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति बाह्या निवृत्तिः, तस्या एव निवृत्तेविरूपायाः येनोपकारः क्रियते तदुपकरणं, तच्चेन्द्रियकार्यसमर्थ, सत्यामपि निवृत्तावनुपहतायां मसूराकृतिरूपायां तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधा, तत्राभ्यन्तरमक्षण१ स्वपक्षे भावमनो व्याप्रियते इत्यथः। --
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy