SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ लोकवि. अ.२ श्रीआचारावृत्तिः (शीलाङ्का.) उद्देशकः १ ॥२०४॥ यन्तीति, श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुव्यत्ययेन द्रष्टव्येति, एवं चचुरादिविज्ञानेष्वपि योज्यम् , अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टुणि कुतो न भवन्ति ?, उच्यते, अशक्यमेवं विज्ञातु, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात् , दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा-धवनगृहान्तर्तिपुरुपपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहिअहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपि करणानि सन्ति तानि कि नोपात्तानि ?, कानि पुनस्तानि !, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणोत्सर्गानन्दसङ्कल्पच्यापागणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावेऽपि सति पश्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारक तदेव करणत्वादिन्द्रियम् , एतानि तु वाकृपाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ या काश्चन क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भ्र दरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात, किंच-इन्द्रियाणा स्वविषये नियतत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कतु मलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसाघुपलम्मे शीतस्पर्शदेरप्युपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम् , इह तु पुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य दशनादिनाऽपि निय॑मानत्वाद्यत्किश्चिदेतत, मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एव, तस्य च बाह्यन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्ष ܀܀܀܀܀܀܀܀܀ ॥ २०४॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy