________________
.२०३॥
सीउण्हं अरह भयं खुहा पिवासा य वाही य॥१॥मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलण आउस्स अवकमा एते ॥२॥" उक्तं च-"स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति ? ॥१॥ उच्छवासावधयः प्राणाः, स चोच्छवासः समीरणः । समीरणाचलं नान्यत् , क्षणमप्यायुरभुतम् ।। २॥" इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिको जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहिं
अभिकतं च खल वयं स पेहाए तभी से एगदा मूढभावं जणयंति ॥ सूत्रं ६३॥ । शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परि-समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात्परिहीयमानः सद्भिस्ततोऽसौ-प्राणी 'एकदा' वृद्धावस्थायां रोगोदयावसरे वा 'मृढभावं' मूढतां कर्त्तव्याकर्तव्याज्ञतामिन्द्रियपाटवाभावादात्मनो जनपति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे 'तिङा तिको भवन्तीति बहुवचनमकारि. अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापाद
.
। २०३॥