SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ संसारं छत्तमणो कम्म उम्मूलए तदहाए । उम्मूलिज कसाया तम्हा उ चइज्ज सयणाई ॥१८५॥ माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे। अत्थंमि चेव गिडा जम्मणमरणाणि पावंति॥१६॥ _ 'संसार' नारकतिर्यग्नरामरलक्षणं मातापितभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मूलयिपुरष्टप्रकार कम्मोन्मूलयेत , तदुन्मूलनार्थ च तत्कारणभृतान् कषायानुन्मूलयेत , कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात् , यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थे-त्नकुप्यादिके गृद्धा:-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति | गाथाद्वयार्थः ॥ नदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिं च, चशब्दात्यक्षं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन तिष्ठति, तद्यथा-"'कइया वच्चइ सत्थो ? किं भण्डं कत्थ कित्तिया भूमी। को कयविक्कयकालो निव्विसह किं कहिं केण? ॥ १॥" इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह-काले'त्यादि, कालःकर्तव्यावसास्तद्विपरीतोऽकालः सम्यगुत्थातुम्-अभ्युद्यन्तु शीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु-काले कर्तव्यावसरे अकालेन नद्विपर्यासेन समुत्तिष्ठते-अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्तव्यावसरे न करोत्यन्यदा च विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगावतिरपगतभत का सती ग्रहणकालमतिवाद्य कृतप्राकारादि १ कदा ब्रजति मार्थः किं भाण्ड कुत्र कियती भूमिः । कः क्रयविक्रयकालो निर्विषयति (निर्विशति ) किं क केन ? ॥१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy