________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ १६८ ॥
रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादितः सुभूपेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्या - निमित्तं रागद्वेषोद्भवः, तद्यथा- चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपागते कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्त्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमज्ञानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा - जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेव पदानुसारी सबलवाहनः क्षयमगात्, स्नुषा मे न जीवतीत्यारम्भादौ प्रवर्त्तते, 'सखिस्वजनसंग्रन्थसंस्तुता मे' सखा - मित्रं स्वजनः - पितृव्यादि, संग्रन्थः - स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादि, संस्तुतो भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च दुःखित इति परितप्यते विविक्तं शोभनं प्रचुरं वा उपकरणं - हस्त्यश्वरथासनमञ्चकादि परिवर्त्तनं - द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनं- मोदकादि आच्छादनं-पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा । 'इच्चत्थ' मिति इत्येवमर्थं गृद्धो लोकः तेष्वेव मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत्' तिष्ठेदिति, उक्तं च — “पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ १॥ पुत्रकलत्रपरिग्रह ममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ||२||" अनुमेवार्थं नियुक्तिकारो गाथाद्वयेनाह—
लोकवि. प्र.२ उद्देशकः १
॥ १६८ ॥