SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ २०० ॥ रवा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम्"मासैरष्टभिरहा च पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण येनान्ते सुखमेधते ॥ १ ॥ " धर्मानुष्ठानस्य च न कविदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह - 'संजोगट्ठी' संयुज्यते संयोजनं वा संयोगोऽर्थः-प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी - तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च - 'अट्ठालोभी' अर्थो - रत्नकुप्यादिस्तत्र आ - समन्तालोऽर्थालोभः स विद्यते यस्येत्य सावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि असावतिक्रान्तार्थोपाज्जैन समर्थयौवनवया जलस्थलपथप्रेषितनाना देशभाण्डभृत बोहित्थमन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाण जलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथाय महानदी जलपूरानीतकाष्ठानि जिघृचुरुपभोगधर्म्मात्रसरे निवृत्तापराशेषशुभ परिणामः केवलमर्थोपार्ज्जनप्रवृत्त इति, उक्तं च—'''उक्खणइ खणइ निहणइ रत्तिं ण सुअति दियावि य ससंको। लिंपइ ठएइ सययं लेलियपडिलंछियं कुणइ ॥ १ ॥ भुञ्जसु न ताव रिक्को जेमेड' नविय अज्ज मज्जीहं । नवि य वसीहामि घरे कायव्वमिणं बहुं अज्जं ॥ २ ॥ पुनरपि लोभिनोऽशुभव्यापारानाह - 'आलु' पे' आ-समन्तान्लुम्पतीत्यालुम्पः, स १ उत्खनति खनति निदधाति । इन्ति) रात्रौ न स्वपिति दिवाऽपि च खशङ्कः । लिम्पति स्थगयति सततं लान्छितप्रतिलान्छितं करोति ॥ १॥ भुङ्क्ष्व न तावन्निर्व्यापारो जिमितुं नापि चाद्य महृदयामि । नापि च वत्स्यामि गृहे कर्त्तव्यमिदं बय ॥२॥ लोक . अ.वि. २ उद्देशकः १ ॥ २०० ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy