SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ KI तदपेक्षया चाकर्मतेति, कथमिति ?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव । परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च-"अप्पं बायरमउयं बटुं च लक्ख च सुकिलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥१॥" अन्पं स्थितितः स्थितेरेवाभावात् , बादरं परिणामतोऽनुभावतो मृदनुभावं, बहु च बहुप्रदेशः, रूक्षं स्पर्शतो, वर्णेन शुक्लं, मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात् , साताबहुलमनुत्तरोपपातिकसुखातिशायीति । उक्तमीर्यापथिकम् , अधुना आधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयाभिष्वङ्गवान् सखलिप्सुमोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपञ्च विदधाति, तदुक्तम्-"दुःखात्मकेषु विषयेषु सुखाभिमानः, सोख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपडितरिवान्यरूपा, सारूप्यमेति विपरीतगति प्रयोगात् ॥१॥" एतदुक्तं भवति-कर्मनिमित्तभूता मनोज्ञेतरशब्दादय एवाधाकम्र्मेत्युच्यन्ते इति । तपःकर्म 8 तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापि निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मेत्युच्यते । कृतिकर्म तस्यैव कम्मणोऽपनयनकारकमर्हत्सिद्धाचार्योपाध्यायविषयमवनामादिरूपमिति । भावकर्म पुनरवाधामुल्लङ्घय स्वोदयेनोदीरणाकरणेन वोदीर्णः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कम्र्मोक्तम्, इह तु समुदानकम्मर्मोपात्तेनाष्टविधकर्मणाधिकार ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy