________________
॥ ११ ॥
पूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदेकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावेदनीयभान विपरिणमन्ते, पडिबधबन्धकस्य त्वायुम्मोहनीयवजः पोढा, सप्तविधवन्धकस्य सप्तधा, अष्टविधवन्धकस्याटधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेवल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयंतीतितत्रायुपः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येक नामगोत्रयोः, परस्परं तुन्याः, तद्विशेषाधिकार प्रत्येकं ज्ञानदर्शनावरणान्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पश्चमी, सा च "पञ्चमी विभक्त" (पा. २.३-४२) इत्यनेन सूत्रेण विधीयते, अस्य चायमों-विभागो विभक्तं तत्र पञ्चमी विधीयमाना | यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्म पुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुद्धथा बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र पष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यौ, “यतश्च निर्धारण (पा. २-३-४१) मित्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आयतरा:, कर्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशवलशावलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागोवा,