________________
॥ १८ ॥
| दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकमेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोटयः, स्त्रीवेदसातावेदनीयमनुजगत्यानुपूर्वीणां चतसृणां पश्चदश, मिथ्यात्वस्योधिकमोहनीयवत् , कषायषोडशकस्य चत्वारिंशत कोटीकोटयः, नपसावेदारतिशोकमयजुगुप्सानरकतिर्यग्गत्येकेन्द्रियपञ्चेन्द्रियजात्यौदारिक क्रियशरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहण्डसंस्थानान्त्यसंहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलघूपघातपराघातोच्छवासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्याप्तकप्रत्येकास्थिराशुभदर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैगोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकलीन विंशतिः, वेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकात्युच्चोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोदश तृतीयसंस्थाननाराचसंहननयोश्चतर्दश कब्जसंस्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिभिन्नान्तमुहर्त्तमवाधा. देवनारकायुषोरोधिकवत् , तिर्यग्मनुष्यायुषः पन्योपमत्रयं पूर्वकोटित्रिभागोऽवाधा । उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यतेमत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसज्ज्वलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तमुहर्तमन्तमुहर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागाः पन्योपमासङ्घय यभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता अन्तर्मुहूर्त्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासङ्ख्येयभागन्यूनम् , आद्यकषायद्वादशकस्य चत्वारः, सप्तभागाः सागरोपमस्य पल्योपमासङ्ख्येयभागन्यूनाः, सज्वलनक्रोधस्य मासद्वयं, मानस्य मासः, तदधं मायायाः,
१८६॥