SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (बीलाङ्का.) ॥ २८६ ॥ रूपं भवति, तत्र प्रयोगकर्मणैकरूपतया गृहीतानां कर्मवगणानां सम्यगुमुलोचरप्रकृतिस्थित्यनुभावप्रदेशबन्ध भेदेनाङमर्यादया देश सर्वोपघातिरूपया तथा स्पृष्टनिघत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीय दिः, उत्तरप्रकृतिबन्धस्तूच्यते-उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा - मतिश्रुतावधिमनःपर्याय केवलावरण भेदात्, तत्र केवलावारकं सर्वघाति शेषाणि तु देशघातिन्यपि दर्शनावरणीयं नवधा- निद्रापञ्चकदर्शनचतुष्टयभेदात, तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः, वेदनीयं द्विधा - सातासात भेदात्, मोहनीयं द्विधा - दर्शन चारित्रभेदात्, तत्र दर्शन मोहनीयं त्रिधा - मिथ्यात्वादिभेदात् (सप्तधा - अनन्तानुबन्धिमिध्यात्वादिभेदात् वन्धतस्तु पञ्चधा) बन्धतस्त्वेक.विधं, चारित्रमोहनीयं षोडश (द्वादश) कषायन व नोकषायभेदात्पञ्च (एक) विंशतिविधम् अत्रापि मिथ्यात्वं सज्ज्वलनव द्वादश कषायाश्च सर्व्वघातिन्यः शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा - नारका दिभेदात्, नाम द्विचत्वारिंशद्भेदं गत्पादिभेदात, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदात्पञ्चधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिक क्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्व्वजीव शरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्म्मवर्गणैकत्वापादकं पश्चधा सङ्घातनामौदारिकादि कर्म्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि पोढा म्हनननाम वज्रऋषभनाराचादि षोढैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारक दिवद्ध विहायोगतिः प्रशस्ता प्रशस्तभेदात् द्विधा अगुरुलघूपघातपराघातातपोद्योतोच्छ्वासप्रत्येक लोकवि. अ. २ उद्देशकः १ ।। १८६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy