________________
.१८५॥
न्यात उत्कृष्टा क्षेत्रपन्योपमस्यासङ्ख्येयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकण युज्यत इति प्रयोगः, सच मनोवाकायलक्षणः पञ्चदशधा, कथमिति !, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्की, एवं वाग्योगोऽपि, काययोगामप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकाणियोगमेदात , तत्र मनोयोगो मनःपर्याप्त्या पर्याप्तस्य मनुष्यादेः वाग्योगोऽपि द्वीन्द्रियादीनाम् , औदारिकयोगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरूद्धर्व, तदारतस्तु मिश्रा, केवलिना वा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम् , अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारक्यारुत्पत्तिसमयेऽन्यस्य या वैक्रियं निवर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्तनाकाले, कार्मणयोगो विग्रहगती केवलिसमुद्घाते वा तृतीयचतुर्थपञ्चमममयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्तमानैः सर्वरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तत्प्रयोगकर्मेत्युच्यते, उक्तं च-"'जावणं एस जोवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंधए"। समुदानकर्म सम्पूर्वादापर्वाच्च ददातेल्युडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन
१ यावदेष जीव एजते व्येजते चलति स्पन्दते, तावदष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नव बन्धकः।
॥१८५॥