________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ १८४॥
दिति । शेषा अपि वर्गणाः क्रमायाताः विनेयजनानुग्रहार्थ व्युत्पाद्यन्ते-पुनरप्युत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण जघ
लोकवि. अ.२ न्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः, तदुपरि रूपप्रक्षेपादिक्रमेणानन्ता एवला जघन्योत्कृष्टभेदा अधूववर्गणाः, अध्रुवत्वादध्रुवाः, पाक्षिकसद्भावादध्रवत्त, जघन्योत्कृष्टभेदोऽनन्तरोक्त एव, तदुत्कृष्टो- उद्देशकः १ परि रूपादिप्रवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत् , तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम् , एतदुक्तं भवति-अध्रववर्गणोपरि प्रदेशवृद्धयाऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टमेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमासङ्ख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपोत्तरादिवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणात उत्कृष्टा त्वसङ्ख्येय(लोकासङ्ख्येय)भागप्रदेशगुणा, तदसङ्ख्येयभागोऽप्यसङ्ख्येयलोकात्मक इति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या पादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासङ्ख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा, को गुणकार इति ?, उच्यते, अगुलासङ्ख्येयभागप्रदेशराशेरावलिकाकालासङ्ख्येयभागसमयप्रमाण कृतपौनःपुन्यवर्गमूलस्यासङ्ख्येयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्धया जधन्योत्कृष्टमेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासंख्येयभागसमयगुणा, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा चतुर्थी शन्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्रीकृतलोकस्यासङ्
१८४॥ ख्येयाः श्रेण्यः, ताश्च प्रतरासङ्ख्येयभागतुल्या इति, तदुपरि रूपादिवृद्धया- जघन्योत्कृष्ट मेदा महास्कन्धवर्गणा, जघ
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀