________________
॥१३॥
अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशत्वाच्च तैजसस्याग्रहणयोग्याः, बादरत्वात् अन्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्ग-18 णार्या रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्धया उत्कृष्टवर्गणापयन्तान्यनन्तानि स्थानानि भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्तभागस्यानन्तपरमाण्वात्मकत्वाद्भापाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयं, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिक ज्ञातव्यं, नवरं जघन्योत्कृष्टयोआंदोऽयम्-अभव्यानन्तगुणः सिद्धानन्तभागात्मका, तास च पूर्वहेतुकदम्बकादेव भाषाद्रव्यानापानद्रव्ययोरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्धयोस्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यात उत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्ट भेदेनाग्रहणवर्गणा, विशेषस्त्वमव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्धया जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्यवर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अन्पप्रदेशत्वाद् बादरत्वाच्च कार्मणस्यापि, तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, अथ जघन्यो स्कृष्टयोः कः प्रतिविशेष इति ?, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा सचानन्तभागोऽनन्तानन्तपरमाण्यात्मकोऽत एवानन्तमेदभिन्नाः कर्मद्रव्यवर्गणा एवं भवन्ति, आभिश्चात्र प्रयोजन, द्रव्यकर्मणो व्याचिख्यासितत्वा
१८३॥