________________
श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ १८२॥
स्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः १, जघन्याभ्योऽसङ्ख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेश
व्ययगुणा उत्कृष्टा ताच अपरालोकवि.अ.२ त्वादतिसूक्ष्मपरिणामत्वाच्चौदारिकस्यानन्ता एवाग्रहणयोग्या भवन्ति, अन्पप्रदेशत्वाद्वादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशावर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि
उद्देशकः १ रूपप्रक्षेपयोग्यायोग्यादिकं क्रियशरीरग्रहणवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयं, तथा वैक्रियाहारकान्तरालवर्त्ययोग्यवर्गणानां जघन्योत्कृष्टविशेषासङ्ख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जपन्याहारकशरीरयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा विशेषाधिकाः, को विशेष इति चेत्, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुन्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्धया वर्द्धमाना उत्कृष्ट यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् वहुप्रदेशत्वाच्चायोग्या एव भवन्ति, बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्तगुणाः, केन गुणकारेणेति चेत् , अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तमाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं ?, जघन्याभ्यः उत्कृष्टा विशेषाधिका, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाज्जघन्योत्कृष्टान्तगल
॥१२॥ वर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्धयोत्कृष्टान्ता