SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥ १८१॥ किइकम्म भावकम्मं दसविह कम्मं समासओ होइ। नामकर्म कर्मार्थशून्यमभिधानमात्रं, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्म च, तत्र द्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या वध्यमाना बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीवलादिकर्म । अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्कीय॑न्ते ?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात , तत्र द्रव्यत एकद्वयादिसङ्ख्येयासङ्ख्येयानन्तप्रदेशात्मिकाः क्षेत्रतोऽवगाढद्रव्यैकद्वयादिसङ्ख्येयासङ्ख्येयप्रदेशात्मिकाः कालत एकद्वयादिसङ्ख्येयासङ्ख्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतमेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते-तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सङ्ख्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः असङ्ख्येयप्रदेशिकानामसङ्ख्येयाः, एताश्चौदारिक दिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लवन्य औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खन्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्ध्या प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः?, जघन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्यं, तत औदारिकयोग्योत्कृष्टवर्गणायां रूपप्रक्षेपेणायोग्यवर्गणा जघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्धयो ॥१८१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy