________________
॥ १७५ ॥
पस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति । गणनास्थानमेकद्वयादिक शीर्षप्रहेलिकापर्यन्तं । सन्धानस्थानं द्विधा-द्रव्यतो भावतश्च, पुनरप्येकै द्विधा-छिन्नाच्छिन्नभेदात, तत्र द्रव्यक्छिन्नसन्धान कञ्चुकादे., प्रच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभेदात् द्वधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रबर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिमावादोदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्धयमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत् , उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य वा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरोदयिकभावादौपशमिकादिभावान्तरसङ्क्रान्तौ सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं योगपर्धन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तु भावविषयमित्युक्त स्थानम् ॥ अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात्, तेषां किं स्थानं ?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीन्ति तदर्शयति
पंचसु कामगुणेसु य सद्दष्फरिसरसरूवगंधेसु। जस्स कसाया वहति मूलढाणं तु संसारे ॥ १७६ ॥ तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासौं चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु 'यस्य' जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणो राग-21