SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ X.x.x.000 श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥१७४॥ ..............X स्थानं यो यत्र ग्रामगृहादौ वसति। संयमस्थानं संयम:-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्ख्य यानि संयमस्थानानि, कियदसङ्ख्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टु शक्यते, आगमानुमारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्ख्य यलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्यो- उद्देशकः १ ऽग्निकायत्वेन परिणता असङ्ख्य यगुणाः, ततोऽपि तत्कायस्थितिरसङ्घय यगुणाः, ततोऽप्यनुभागवन्धाज्यवसायस्थानान्यसङ्ख्य यगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्खये यलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्समुहूर्तिकत्वादन्तमहूर्तसमयतुल्यान्यसङ्खथ यानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्ख्य यसंयमस्थाननिर्वतितं कण्डकं, तैश्चासङ्ख्य यैर्जनितं षट्स्थानकं, तदसङ्ख्य यात्मिका श्रेणीति । प्रग्रहस्थानं, तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः-ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च, तस्य स्थान प्रग्रहस्थानं, लौकिकं तावत्प विधं, तद्यथा-ाजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवतकस्थविरगणावच्छेदकमेदादिति । योधस्थानं पश्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्. तद्यथा-सादिसपर्यवसानं परमाण्वादेव्यस्यैकप्रदेशादाववस्थानं जघन्यत एक समयमुत्कृष्टतश्चासङ्घय यकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारू
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy