SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥१७३॥ बलमथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ३॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥४॥" इत्यादि संसारस्य त्वादिमूलं विषयकषाया इति ॥ मूलमुक्तमिदानीं स्थानस्य पश्चदशधा निक्षेपमाह - णामंठवणादविए खित्तहा उडू उवरई वसही। संजम पग्गह जोहे अयल गणण संधणा भावे ॥१७॥ तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तामिश्राणां स्थानम्-आश्रयः, क्षेत्रस्थानं भरतादि ऊर्ध्वाधस्तिर्यग्लोकादिर्वेति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धा-कालः ततस्थानं द्विधा-कायस्थितिभवस्थितिभेदात. तत्र कायस्थितिः पथिव्यप्तेजोवायूनामसङ्ख्य या उत्सप्पिण्यवसर्पिण्यः, बनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणाम(ण)सङ्गथे या वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपश्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पन्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, 'जघन्या तु सर्वे षामन्तमुहर्तात्मिका, नवरं देवनारकयोर्दश वर्षसहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासर्वयनसंवत्सरयुगपल्योपमसागरोपमोत्सपिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति । उर्ध्वस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वान्निषण्णाद्यपि गृह्यते। उपरतिः वितिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयं । वसति ॥१७३॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy