________________
लोकवि.अ.
श्रीआचा राङ्गवृत्तिः शीलाङ्का.)
उद्देशकः।
। १७२॥
मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावमेदात, नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्मको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकं, आदिमूलं नाम यद्वक्षादिमूनोत्पत्तावाद्यं कारणं, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेपामौदारिकशरीरत्वेन मूलनिवर्तकानां पुद्गलानामुदयिष्यता कार्मण शरीरमाद्यं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यते व्याख्यायते वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमुलं तु विधेति गाथार्थः । तथाहि
ओदइयं उवविठ्ठा आइ तिगं मूलभाव ओदहो। आयरिओ उवदिट्ठा विणयकसायादिओ आई ॥१७॥ ___भावमूलं त्रिविधम्-औदयिकभावमूलम् उपदेष्टुमूलम् आदिमलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं वाचार्य उपदेष्टा-यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावलं तस्य चोपदेष्टेत्येतदेव दर्शयति–'विणयकसाआइओ आई' तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपौपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह-"विणयाओ' णाणं णाणाउ दंसणं दसणाहि चरणं तु । चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ॥१॥ विनयफलं शुश्रूषा गुरु शुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं घिरतिर्विरतिफलं चावनिरोधः ॥२॥ संवरफलं तपो
१ विनयात् ज्ञानं ज्ञानाद्दर्शनं ज्ञानदर्शनाभ्यां चरणं तु । ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् ॥ १॥
१७२॥