SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७१॥ यस्यावश्यंभाविशेषघातिकर्मक्षयः २ क्षीणघातिकर्मणोऽनावरणज्ञानदर्शनाविर्भावः ३ अपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्निकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति ४ श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सानिपातिकस्त्वौयिकादिपञ्चभावसमकालनिष्पादितः तद्यथा-मनुष्यगत्युदयादौदयिकः । सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिकः दर्शनसप्तकक्षयात् क्षायिकः चारित्रमोहनीयोपशमादौपशमिकः भव्यत्वात्पारिणामिक इति, उक्नो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावद् उदये भव औदयिकः, स चाजीवाश्रयोऽनया विवक्षया, यदुत-काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पश्च षट् संस्थानानि त्रीण्यङ्गोपाङ्गानि षट् संहननानि वर्णपश्चकं गन्धद्वयं पञ्च रसा अष्टौ स्पर्शा अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः; सत्यपि जीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा-अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धधिकिाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणाभिकस्त्वज्रन्द्रधनुरादीनां परमाणुनां च वर्णादिगुणान्तरापत्तिरिति गाथातात्पर्यार्थः ॥ उक्रो गुणो, मूलनिक्षेपार्थमाह मूले छक्कं दव्वे ओदइउवएस आइमूलं च । खित्ते काले मूलं भावे मूलं भवे तिविहं ॥ १७३ ॥ ॥ १७१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy