________________
लोकवि. अ.२
उद्देशकः १
लाङ्का.
* एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यजुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं चआचा
-8"शाठ्य होमति गण्यते व्रतरुची दम्भः शची कैतवं, शूरे निघृणता ऋजौ(ऽऽर्जवे) विमतिता दैन्यं प्रवृत्तिः प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो
दुर्जर्नाङ्कितः ॥१॥"। अगुणगुणो नामागुण एव कस्यचित् गुणत्वेन विपरिणमते, स च वक्रविषयो, यथा १७०॥ गौगलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च-"गुणानामेव दौर्जन्या(दौरात्म्या)हरि धुर्णे
नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः॥१॥"। भवगुणो नाम भवन्ति-उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादित्वेनेति भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथा-नारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । मावगुणो नाम भावा:-औदयिकादयस्तेषां गुणो भावगुणः, स च जीवाजीवविषयः, तत्र जीवविषय औदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च, तीर्थकराहारकशरीरादिः प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्मानुदयलक्षणश्चेति, क्षायिकभावगुणश्चतुर्दा, तद्यथा-क्षीणसप्तकस्य पुनमिथ्यात्वागमनं १ क्षीणमोहनी
܀܀܀܀܀܀܀܀܀܀
1
॥१७०