SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६ पेतो, भावगुणो जीवाजीवयोः, इति संयोज्यकैको व्याख्यायते-तत्र देवकुरूत्तरकुरुहरिवर्षरम्यक हैमवतहरण्यवतपटपश्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुपो मनोजशब्दादिविषयोपभोगिनः स्वभावमा(वार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसष्वप्येकान्तसुषमादिषु समासु स एव सदावस्थितयौवनादिरिति । फलमेव गुण: फलगुणः, फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनै कान्तिको भवन् फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शन ज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति-सम्यगदर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव, फलाध्यारो- पानिष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात् , स च निर्भजनारूपो, निश्चिता भजना निर्भजना-निश्चितो भाग इत्यर्थः, तथाहि-स्कन्धद्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्ण द्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिका, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते। करणगुणो नाम कलाकौशलं, तथाहि-उदकादौ करणपाटवार्थ गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-तदहर्जातबालकोऽपि भवान्तराम्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपि कवलादेमुखविवरप्रक्षेपाद्वथा(पो व्या)कुलितचेतसोऽपि च तुदद्गाकण्डूयनमिति । गुणागुणो नाम गुण ॥१६॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy