________________
४४४
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा, तत्र कषायसमुद्धातोऽनन्तानुबन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येव तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणा
लोकवि. अ.२ न्तिकसमुद्घातो हि मुमूर्षारसुमत आदिम्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशाचां भूयो भूयः प्रक्षेपसंहाराविति, वैक्रिय-उद्देशकः १ समुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातचतुर्दशपूर्वविद आहारकलब्धिमवः कचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातु बहिरात्मप्रदेशप्रक्षेपः, केवलिममुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्घातं नियुक्तिकारः स्वत एवाचष्टे-'पूरयति' व्याप्नोति हन्दीत्युपप्रदर्शने, किम्?–'लोक' चतुद्देशरज्ज्वात्मकमाकाशखण्ड, कृतो?, बहुप्रदेशगुणत्वात् , तथाहि-उत्पनदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्य दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशाना लोकमापूरयति, तदुक्तम्-दंड कवाडे मंथतरे यत्ति माथार्थः ॥गतो 13/ द्रव्यगुणः, क्षेत्रादिकमाहदेवकुरु सुसमसुसमा सिडी निम्भय दुगादिया चेव । कल भोअणुज्जु वके जीवमजीवे य भावंमि ॥१७॥
क्षेत्रगुणः देवकुर्वादिः, कालगुणे सुषमसुषमादिर, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थ
॥१६८॥ मुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीवः क्षान्त्याधु