SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ॥१६७॥ स्यात्, नथाहि-चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाचात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद. रूपादिस्वरूपवद्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन् , अन्यथा विरुद्धधर्माध्यासाद्भिधेरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं गृहीमः ?, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्मेदाभेदव्यस्थानेनैवात्मभावसद्भावात् , आह हि-"'दव्वं पज्जवविजुयं दव्वविउत्ता य पज्जवा णस्थि । उप्पायटिभंगा हदि दवियलक्खणं एयं॥१॥ नयास्तव स्यात्पदलाञ्छिता इमे; रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥२॥" | इत्यादि स्वयूथ्यैरत्र बहु विजृम्मितमित्यलं विस्तरेण । एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यवस्थितमाह संकुचियवियसियत्तं एसो जीवस्स होई जीवगुणो। पूरेइ हंदि लोगं बहुप्पएसत्तणगुणणं ॥ १७१॥ ___ जीवो हि सयोगिवीर्यसद्र्व्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, मेदं विनाऽपि षष्ठ्युपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीमिति, तद्भव एव वा सप्त समुद्घातवशात् सङ्कुचति विकसति च, सम्यक-समन्ततः उत्-प्राबल्येन हननम्-इतश्चेतश्चात्मप्रदेशाना प्रक्षेपणं समुद १ द्रव्यं पर्यायत्रियुतं द्रव्यवियुताश्व पर्यवा न सन्ति । उत्पादस्थितिभङ्गा हन्दि द्रव्यलक्षणमेतत् ॥१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy