________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥१६४॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
नुपपन्नम् ?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्य
लोकवि.अ.२ मानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजाय परिषद्याचारार्थों बभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैगौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया उद्देशकः७ दमे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराङ्गे व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोषो, यतो भद्रबाहुस्वामिनवाऽयमतिदेशोऽभ्यधायि, सच पूर्वमावश्यकनियुक्ति विधाय पश्चादाचाराङ्गनियुक्ति चक्रे, तथा चोक्तम् - "आवस्सयस दसकालियस्स तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापने तुण्णत्वादनादृत्य द्रव्यादिकमाह-दव्व'मित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादेन पतिमल्लादेर्वा, क्षेत्रविजयः षटखण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहस्रर्भरतेन जितं भरतं, कालस्य प्राधान्यात , भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयों व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना । विजयः। तदेवं लोकविजययोः स्वरूपमुपदयं प्रकृतोपयोग्याह-'भवे'त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोमङ्गभीत्या ह्रस्व एवोपादायि, तथा चावाचि-"भावे कसायलोगो अहिगारो तस्स विजएणं"ति, ॥१६४॥ तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम् , इदमत्र हुयम्-अष्टविधलोक