SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ॥ १६३॥ लापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भत्वा विवेकेनाऽऽचष्टेलोगोत्तिय विजअति य अज्झयणे लक्खणं तु निष्फण्णं । गुणमूलं ठाणंति य सुत्तालावे य निष्फण्णं ॥१५॥ कण्ठया, तत्र 'यथोद्देशस्तथा निर्देश इति न्यायालोकविजययोनिक्षेपमाहलोगस्सयनिक्खेवो अट्ठविहोछविहोउ विजयस्स। भावे कसायलोगो अहिगारोतस्स विजएणं ॥१६॥ तत्र लोक्यत इति लोकः, 'लोक दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया (पा. ३-३-१९ ) मिति घज, सच धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात , 'छविहो उ विजयस्स'त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते, तत्रादावाष्टप्रकारे लोके येनात्राधिकारस्तमाह'भावे कसायलोगो'त्ति भावलोकेनात्राधिकारम्, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात संसारस्य, यद्येवं ततः किमत आह-'अहिगारो तस्स विजएणंति अधिकारो-व्यापार: तस्यऔदयिकभावकषायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः ॥ तत्र लोकोऽष्टधा निक्षेषार्थ प्रागुपादेशि विजयश्च षोढा, तनिक्षेपार्थमाहलोगोभणिमोदव्वं खित्तं कालो अभावविजओभव लोग भावविजओ पगयंजह बझई लोगो॥१७॥ तत्र लोकश्चतुर्विंशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति किमत्रा ॥१६३॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy