________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
लोक वि.अ.२ उद्देशकः १
॥ १६२॥
बहुगा वे'त्यादि ३, चतुर्थे तु 'भोगेसु'त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च–'थीहिं लोए पब्वहिए' ४, पञ्चमे तु 'लोगणिस्साए'त्ति त्यक्तस्वजनधनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम्-'समुट्टिए अणगारे' इत्यादि जाव परिव्वए' ५, षष्ठोद्देशके तु-'लोए अममिज्जया चेव लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातिय' गाथातात्पर्यार्थः॥ नामनिष्पन्ने तु निक्षेप लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यवस्त्रालापकनिष्पन्ननिक्षेपोपक्षिप्त सामर्थ्यायातं च यनिक्षेप्तव्यं तनियुक्तिकारो गाथया सम्पिण्डयाऽऽचष्टेलोगस्स य विजयस्स य गुणस्समूलस्स तह य ठाणस्स । निक्लेवो कायव्यो जमूलागं च संसारो॥१६४ ॥
कण्ठया, नवरं 'जमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललावु दमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्रयाद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोमूलम्-आद्यं कारणं कषायाः-कष:-संसारस्तस्याऽऽया इतिकृत्वा । तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रा
१६२॥