________________
साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते। तथा च नियुक्तिकारेणाध्ययनार्थाधिकार शस्त्रपरिज्ञायां प्राग्निरदेशि-"लोओ जह बज्झइ जह य तं विजहियव्वं" ति, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि चोपक्रमादीनि, तत्रोपक्रमो वैधा-शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपविधा-ओघमामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, नया-नेगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह
सयणे य अदढत्तं बीयगंमि माणो अ अत्थसारो अ ।
भोगेसु लोगनिस्साइ लोगे अममिज्जया चेव ॥ १६३ ॥ Bal तत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च
सूत्रम्-'माया मे पिया मे इत्यादि १, 'अदढत्तं बीयगंमित्ति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति सम्बन्धः शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च–'अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'माणो अ अत्थसारो अत्ति जात्याद्यपेतेन साधुना कर्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च–के गोआवादी ? के माणावादी'त्यादि, अर्थसारस्य च निस्सारता वयते, तथा च–'तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀