SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ लोक वि.अ.२ उद्देशकः१ श्रीआचाराङ्गवृत्तिः (शीलाङ्का) ॥१६ ॥ ॥ अथ लोकविजयाख्यं द्वितीयमध्ययनम् ॥ नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययः । उक्ताचारप्रपञ्चाय, निष्प्रपश्चाय तायिने ॥१॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमिविवृणोमि ततोऽहमवशिष्टम् ॥ २॥ उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इह हि मिथ्यात्वोपशमक्षयक्षयोपशमान्यतरावाप्तसम्यगदर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणमेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलपाणिगणसङ्घट्टनपरितापनापद्रावण निवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेर्हिस्पत्यमनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासे-केन्द्रियावनिजलानलपवनवनस्पति भेदांश्च जीवान् प्रकटय्य यथाक्रम समानजातीयाश्मलताद्यद्भेददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्माण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरभकशरीरवत् अपरप्रेरिताप्रतिहतानियततिरश्चीनगमनाद्गवाश्वादिवत् सालवतकनूपुरालङ्कारकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगः तथोच्चैः शिर उद्घाटय सूक्ष्मवादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तकअपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि-अधिगतशत्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सोंपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतमारस्य ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥१६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy