________________
विरतिरविकला त्रिरुरुचारिता, पश्चादिदं त्रिरुच्चरितव्यम्-'इच्चेइयाई पंच महव्वयाई राहभोयणवेरमणलट्ठाई ॥ १५ ॥
अत्तहियट्ठयाए उपसंपन्जिता णं विहरामि' पश्चान्दनकं दचोस्थितोऽभिधत्ते अवनताङ्गयष्टिः-संदिशत किं भणामी'ति, मूरिः प्रत्याह-'वन्दित्वाऽभिधत्स्वेत्येवमुक्तोऽभिवन्द्योत्थितो भणति-'युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्यनुशिष्टि मिति, आचार्योऽपि प्रणिगदति- 'निस्तारकपारगो भवाचार्यगुणैर्वर्डस्व'
वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारRaमावर्तयन् , पुनरपि वन्दते, तथैव च करोति सकल क्रियानुष्ठानम् , एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषा साधव
चास्य मूनि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमला यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः सूरिरभिदधातिगणस्लव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्तिनी तृतोयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तवहूलकषायझपादिकुलाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदश्यसितव्यं मुमुक्षुणेति ॥ आचार्यश्रीशीलाकविरचिता शस्त्रपरिज्ञाध्ययनटीका समाप्तेति (ग्रन्थाग्रं २२२१)॥
॥ इति प्रथमाध्ययने सप्तमोद्देशकः॥ १-७॥इति प्रथममध्ययनम् ॥१॥ १ इत्येतानि पञ्च महाव्रतानि रात्रिमोजनविरमणषष्टानि आत्महितार्थायोपसंपद्य विहरामि,
म १५४ ॥