________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का. ॥१५८॥
܀܀܀܀܀܀܀܀܀܀܀
पुण हवंतिते चेव सम्मत्तं ॥१॥" तस्मादुभयं परस्परसापेक्ष मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तया चोभयप्राधान्यदिदर्शयिषयाह-सब्वेसिपिणयाणं बहुविधवत्तव्वय णिसामेत्ता।
अध्ययनं १ तं सव्वणयविसुद्ध जं चरणगुणडिओ साह॥१॥चरणं च गुणश्च चरणगुणी तयोः स्थितश्चरणगुणस्थितः,
उद्देशकः ७ गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्क्षपात् ज्ञानचरणयोरेव स्थातव्यमिति निश्चयो विदुषां, न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेगाभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपशुपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवद, तस्मादुभयं प्रधान, नगरदाहनिर्गमे पङ्ग्वन्धसंयोगक्रियाज्ञानवत् ॥ एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थश्वावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाचभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्व यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति ?, अत्रोच्यते, शोभनेषु । तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रमावेषु च भगवतां प्रतिकृतीरभिवन्ध प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः
॥१५ ॥ सूरिः सह शिक्षकेण महाव्रतारोषणप्रत्ययं कायोत्सर्गमुत्सायककं महाव्रतमादित आरभ्य त्रिरुरुचारयेद् यावनिशिभुक्ति