SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ चतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । उक्तः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनियुक्तिः। सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङ्क्षपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदु:खप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य ' प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थाना, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोन्छेदः, तदनुच्छेदाच मोक्षालाभः, तस्मान्न ज्ञानं प्रधानं, चरणे पुनः सति सर्व मूलात्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवटिज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माच्चरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम् 'हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दडो, धावमाणो य अंधओ॥१॥" तदेवं सर्वेऽति नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यगभावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्-"२एवं सव्वेवि णया मिच्छादिट्ठी सपक्खपडिबडा। अण्णोण्णणिस्सिया १हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङगुर्दग्धोधावंश्वान्धः॥१॥२ एवं सर्वेऽपि नयाः मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति त एष सम्यक्त्वम् ॥१॥ ॥ १५७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy