________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
i
॥ १५६ ॥
यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इतियावत् तेन सर्वसमन्वागतप्रज्ञानेनात्मना अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफल सकलकलापपरिज्ञानान्नर कतिर्यक् नरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिका दिगुणयुक्ते संसारसुखे मोक्षानुष्ठानमावि - ष्कुर्व्वन् सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना 'अकरणीयम्' अकर्त्तव्यमिह पर लोकविरुद्धत्वादकार्य|मिति मत्वा नान्वेषयेत् न तदुपादानाय यत्नं कुर्यादित्र्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति ?, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृषावादादत्तादान मैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यान पैशून्य पर परिवादरत्यरतिमायामृषामिथ्यादर्शनशम्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत् न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह - 'तं परिण्णाय मेहावी' त्यादि 'तत्' पापमष्टादशप्रकारं परि:- समन्तात् ज्ञात्वा मेधावी - मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकाय परकायादिभेदं समारभेत् नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात् एवं यस्यैते सुपरीच्यकारिणः षड्जीवनिकाय शस्त्रसमारम्भाः तद्विषयाः पापकर्म्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च स एव मुनिः प्रत्याख्या तपापकर्म्मत्वात् - प्रत्याख्याताशेषपापागमत्वात् तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये भगवतोऽपनीतघनघातिकर्म्म -
1
अध्ययनं १
उद्देशकः ७
॥ १५६ ॥