SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ .१५५॥ अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मकाः अध्युपपन्नाः-विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुयु रित्याह-'आरंभसत्ता पकरंति संगं' आरम्भणमारम्भ:-सावद्यानुष्ठानं तस्मिन् सक्ताः-तत्पराः प्रकर्षण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः स सङ्ग:-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, पुनः २ तत्रैवोत्पत्तिः, आजवंजवीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति ॥ अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह से वसमं सव्वसमण्णागयपण्णाणणं अप्पाणणं अकरणिज्ज पावं कम्मं णो अण्णेसिं, तं परिणाय मेहावी व सयं छज्जीवनिकायसत्थं समारंभेजा, णेवडण्णेहिं छज्जीवनिकायसत्थं समारंभावेजा, वऽण्णे छज्जोवनिकायसत्थं समारंभंते समणजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिणायकम्मे त्तिबेमि ॥ सू०६१॥ 'से' इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावमेदाद्विधाद्रव्यवसूनि-मरकतेन्द्रनीलवज्रादीनि भाववसूनि-सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि-यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञान:-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभि
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy