________________
.१५॥
पड्विविजययोः प्राग्ल्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकःप्राणिगणो बध्यते, बन्धस्योपलक्षणत्वायथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः । तेनैव भावलोकविजयेन किं फलमित्याह
विजिओ कसायलोगो सेयं खु तमो नियत्ति होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥१६८॥ ___ व्याख्या-'विजित' पराजितः, कोऽसौ ?-कषायलोकः औदयिक्रमावकषायलोक इतियावत , विजितकषायलोकः सन् किमवाप्नोतीत्याह-संसारान्मुच्यते चिप्रम्, अतस्तस्मानिवर्तितु श्रेयः, खुक्यिालङ्कारे अवधारणे वा, निवर्तित श्रेय एव, किं कवायलोकादेव निवृत्तः संसारान्गुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति- 'कामे'त्यादि गाथाद्धं सुगमम् । गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्त्रलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्-'जे गुणे से मुलडाणे जे मूलट्ठाणे से गुणे' इत्यादि । __अस्य च निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपःदब्वे खिसेकाले फल पज्जाव गणण करण अष्भासे। गुणगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१६९।
नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणाः करणगुणः अभ्यासगुणा गुणागुणः अगुणगुणः भवगुणः शीलमुणः भावगुणश्चेति गाथासमासार्थः ॥ तदेवं सत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन सदवयवे निक्षिप्ते सत्युपोद्घातनियुक्तेिरवसरः, सा च 'उद्द से'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या।