SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५१॥ समारम्भनिवृत्तः कारणमाह-'जे अज्झस्थ'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखादि, तद्यो जानाति-अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथेषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यस्वकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्मं जानाति, एवं च योऽध्यात्मवेदी स वहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं वा शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुन: स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिप्वपेक्षा ?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतेरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तदर्शयितुमाह-एयं तुलमन्नेसिमित्यादि, एतां तुलां यथोक्तक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला ?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपि रक्ष, यथा परं तथाऽऽत्मानमित्येतां तुला तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्-एवं कुर्यादित्यर्थः, उक्तं च-"'कट्टेण कंटएण व पाए विद्धस्स चेयणहस्स । जइ होइ अनिव्वाणी सब्वत्थ जिएसु तं जाण ॥१॥" तथा "मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥ १॥"॥ अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः स्थावरजङ्गमजन्तुसङ्घातसंरक्षणायैव प्रवर्तन्ते, कथमिति दर्शयति१ काष्ठेन कण्टकेन वा पादे विद्धस्य वेदनात्तस्य । यथा भवत्यनिर्वाणी (असाता) सर्वत्र जीवेषु ता जानीहि ।।१।। २ स्वपरान्तरा.प्र. ॥५१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy