________________
॥ १४५॥
वाउस्सऽपि दाराइनाई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणवभोगसत्थेय ॥१६४॥ वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमाणोपभोगशस्त्रषु, चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्र विधानप्रतिपादनायाह-- दुविहा यवाउजीवा सुहमा तह वायरा उ लोगंमि। सुहमा य सव्वलोए पंचेव य वायरविहाणा ॥१६५।।
वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मवादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकव्यापितया अवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्तर्दू मवत् व्याप्त्या स्थिताः, बादरभेदास्तु पञ्चैवानन्तरगाथया वक्ष्यमाणा इति ॥ बादरभेदप्रतिपादनायाह
उक्कलिया मंडलिया गुञ्जा घणवाय सुद्धवाया य । बायरवारविहाणा पंचविहा वणिया एए ॥१६६॥ दारं-स्थित्वा स्थित्वोत्कलिकाभियों वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा-मम्भा तद्वत् गुञ्जन् यो वाति स गुञ्जावातः, घनवातोऽत्यन्तधनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकन्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमित्येते बादरवायुविधानानि-भेदाः 'पञ्चविधाः पश्चप्रकारा व्यावर्णिता इति ॥ लक्षणद्वाराभिधित्सयाऽऽह___जइ देवस्स सरीरं अंतडाणं व अंजणाईसु। एओवम आएसो वाएऽसंतेऽवि रूवंमि ॥ १६७ ॥
॥१४५ ॥