________________
अध्ययन
श्रीआचाराङ्गवृत्तिः (शीलाका.) ॥१४४॥
उद्देशकः ७
रभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिणाय मेंहावी व सयं तसकायसत्थं समारंभेज्जा, वडपणेहिं तसकायसत्थं समारंभावेजा वऽण्णे तसकायसत्थं समारंभंते समणजाणेजा, जस्सेते तसकायसमारंभा परिणाया भवंति से हु मुणी
परिणायकम्मे त्तिबेमि ॥ सू० ५४ ॥ प्राग्वद्वाच्यं (प्राग्वद्भावनीय) यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति चवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपश्चस्योपदेशादिति षष्ठोद्देशकः समाप्तः ॥
॥ इति प्रथमाध्ययने षष्ठ उद्देशकः ॥ १-६ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ अथ प्रथमाध्ययने सप्तमोद्द शकः ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिद्वारातिदेशगी नियुक्तिकृद्गाथामाह
॥ १४४॥
܀