SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ॥ १४३ ॥ तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैर्व्यापाद्यन्त इति, अप्येकेऽर्चायै घ्नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्य च देहस्तदर्थं व्यापादयन्ति तथाहि लक्षणवत्पुरुषमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्व्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीर्यति, तथा अजिनाथ - चित्रकव्याघ्रादीन् व्यापादयन्ति एवं मांसशोणितहृदय पित्तव सापिच्छपुच्छ्वालशृङ्गविषाणदन्तदंष्ट्रान खस्नाय्वस्थ्य स्थिमिञ्जादिष्वपि वाच्यं, मांसार्थं सूकरादयः, त्रिशूला लेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मध्नन्ति पित्तार्थं मयूरादयः, वस्त्रार्थं व्याघ्रमकरवराहादयः, पिच्छार्थं मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः, शृङ्गार्थं रुरुखड्गादयः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं शृगालादयः, तिमिरापहत्वात्तदन्तानां दंष्ट्रार्थ वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञ्जार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजन कलापापेक्षया घ्नन्ति, अपरे तु कृकलासगृहको किलिकादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मत्स्वजनान्सिंहः सर्वोऽरिवऽतो घ्नन्ति मम वा पीडां कृतवन्त इत्यतो इन्ति, तथा अन्ये वर्त्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति ।। एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देश कार्थमुपस जिहीर्षुराह - एत्थ सत्थं समारभमाणस्स इच्चते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमा ॥ १४३ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy