________________
॥१४१॥
दिग्भ्यश्च विम्यदात्मसंरक्षणार्थ वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत् , शारीरमामसाभ्या दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिंगतमनसः सर्वदाऽवगन्तव्याः ॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृहीमः, दिग्वदिव्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्त्रस्यन्ति ?-यस्मातदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं, ते तानारम्भन्त इत्यत आह--
तत्थ तत्थ पुढो पास, आतुरा परितावंति, संति पाणा पुढो सिया ॥ सू०५१॥ _ 'तत्र तत्र' तेषु तेषु कारणेघूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्यचोदना, किं तत्पश्येति दर्शयति—'मांसभक्षणादिगृद्धा आतुरा:-अस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्वसानिति, येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह-संती'त्यादि, 'सन्ति' विद्यन्ते प्रायः सर्वत्रैव प्राणा:-प्राणिनः 'पृथक् विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रिया: 'श्रिताः पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ॥ अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह
लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारभेण तसकायसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्थ खल भगवया परिण्णा पइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूय