SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का. ॥१४०॥ सर्वेषां नीवानां इति-मभव्युत्क्रान्तिकसम्मृर्छनजौपपातिकपम्वेन्द्रियाणां, तथा सर्वेषां सत्त्वानां इति-पृथिन्या अध्ययनं १ घेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन मेदो द्रष्टन्या, उक्तं च-'प्राणा| दित्रिचतुः प्रोक्ताः, भूतास्तु तरयः स्मृताः । जीवाः पम्पेन्द्रियाः प्रोक्ताः(ज्ञेयाः) शेषाः सत्त्वा उदीरिताः उद्देशकः ६ (प्रकीर्तिताः) ॥२॥ इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः(भ्युपगंतव्यः), तद्यथा-सततप्राणधारणात्प्राण : कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनिर्वाणं-सुखं तथा प्रत्येकमसातम्-अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखं, तद्विशिष्यते-किंविशिष्टम् ?-'असातम' असद्यकाशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण'मिति समन्तात् सुर्ख परिनिर्वाणं न परिनिर्वाणमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयं च महाभयं, नातः परमन्यद् भयमस्तीति महाभयं, तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इति शब्दएवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति । एतच्च ब्रवीमीत्याह-'तसंती' त्यादि, एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनस्द्विजन्तीति दर्शयतिप्रगता दिन प्रदिग्विदिक इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽमुदिश गृह्यन्ते, बीवव्यवस्थानभवणात, ततथायमर्थः प्रतिपादितो भवति काका-न काचिहिंगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा न यस्यां स्थिताः कोशिकारकीटवत् , कोशिकारकीटो हि सर्वदिग्भ्योऽनु
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy